SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दाययुस्तत्र, भृयांसो समविदः केपिल्य पट स्फुटम् । ज्ञात्वा दुःखं यतिष्येऽहं, तत्प्रतीकारकर्मणे । न ह्यज्ञातस्स रोगस्य, चिकित्सा जातु युज्यते ॥ ६४६ ॥ पण्डितायाः खवृत्तान्तं, साऽपि प्राग्जन्मसम्भवम् । यथावदब्रवीत् प्रायश्चित्तार्थी सद्गुरोरिव ॥ ६४७॥ पटे वृत्तान्तमालेख्य, श्रीमत्यास्तं च पण्डिता। उपायपण्डिता मधु, बहिर्दर्शयितुं ययौ ॥६४८॥ ___ चक्रिणो बज्रसेनस्य, वर्षग्रन्थिरभृत् तदा । प्रस्तावादाययुस्तत्र, भृयांसो वसुधाधवाः ॥ ६४९ ॥ पण्डिता राजमार्गेऽथ, तमालेख्यपटं स्फुटम् । विस्तार्य तस्थौ श्रीमत्या, मनोरथमिवाऽलघुम् ॥६५०॥ तत्राऽऽगमविदः केपि, स्वर्गनन्दीश्वरादिकम् । आगमााविसंवादि, लिखितं परितुष्टुवुः ॥ ६५१॥ इतरे तु महाश्राद्धा, धूनयन्तः शिरोधराम् । प्रत्येकं वर्णयामासुर्विम्बानि श्रीमदर्हताम् ॥ ६५२ ॥ कृणिताक्षमभीक्ष्णं केऽपीक्षमाणाः प्रतिक्षणम् । रेखाशुद्धिं प्रशशंसुः, कलाकौशलशालिनः ॥ ६५३ ॥ इतरे तु सिति-श्वेत-पीत नीला-ऽरुणादिकान् । सन्ध्याभ्राभीकृतपटान् , वर्णकानित्यवर्णयन् ॥ ६५४ ॥ ____ अत्रान्तरे च तनयो, दुर्दर्शनमहीपतेः । यथार्थनामा दुर्दान्त, इति तत्र समाययौ ॥ ६५५॥ स क्षणं तं पट प्रेक्ष्य, प्रेक्षावान् मूर्छया क्षितौ । अलीकयाऽपतदथ, लब्धसंज्ञ इवोत्थितः ॥ ६५६ ॥ मृच्छायाः कारणं पृष्ट, उत्थितश्च जनेन सः । कथयामास वृत्तान्तं, कृत्वा कपटनाटकम् ॥ ६५७ ॥ मम प्राग्जन्मचरितं, पटे केनाऽप्यलेख्यत । जातिस्मरणमुत्पेदे, हन्त ! तदर्शनादिह ॥ ६५८॥ ललिताङ्गोऽस्म्यहं देवो, मम देवी खयम्प्रभा । इत्यादि संवदत्येव, यदत्र लिखितं पटे ॥ ६५९ ॥ ___पप्रच्छ पण्डिता चाऽथ, यद्येवं भद्र! तद्वद । सनिवेशः पटे कोऽयमङ्गुल्या दर्शय खयम्॥६६०॥ स ऊचे मेरुरेषोऽद्रिः, पूरियं पुण्डरीकिणी । पुनः पृष्टो मुने माऽब्रवीन्नामाऽस्य विस्मृतम् ॥ ६६१ ॥ चित्ररचना। Jan Education Internati For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy