SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ २३ ॥ Jain Education International स्निग्धया पल्लवयन्तीमिव कान्त्या नभस्तलम् । तां यौवनमलञ्चक्रे, रत्नं स्वणर्मिकामिव ॥ ६३१ ॥ अन्येद्युः सर्वतोभद्रं, नाम प्रासादमुच्चकैः । शैलं सन्ध्याभ्रलेखेव, क्रीडयाऽध्यारुरोह सा ।। ६३२ ॥ ततो मनोरमोद्याने, सुस्थितस्य महामुनेः । उत्पन्ने केवलज्ञाने, ददर्शाऽऽगच्छतः सुरान् ॥ ६३३ ॥ दृष्टपूर्वं मया वेदमित्यूहीपोहकारिणी । जन्मान्तराणि पूर्वाणि, निशास्वनमिवाऽस्मरत् ॥ ६३४ ॥ हृदये प्राग्भवज्ञानभारं वोढुमिवाऽक्षमा । क्षमातले क्षणादेव, मूच्छिता निपपात सा ।। ६३५ ॥ चन्दनाद्युपचारेण, सखीभिः कल्पितेन सा । लब्धसंज्ञा समुत्तस्थौ, चित्ते चैवमचिन्तयत् ॥ ६३६ ॥ पूर्वजन्मपतिमेंस, ललिताङ्गो विश्युतः । क्व सम्प्रत्यवतीर्णोऽस्तीत्यज्ञानं हा ! दुनोति माम् ॥ ६३७॥ तस्मिन् हृदयसङ्क्रान्ते, नाऽन्यो मे हृदयेश्वरः । कर्पूरभाण्डे को नाम, लवणं विनिवेशयेत् ? ॥ ६३८ ॥ स च प्राणाधिनाथो मे, न चेद् वचनगोचरः । आलप्याडलं तदन्येनेत्याददे मौनमेव सा ।। ६३९ ॥ आधिदैविकदोषाभिशङ्कया तत्सखीजनैः । अकारि मन्त्रतत्रादिरुपचारो यथोचितम् || ६४० ॥ सा मुमोच न मूकत्वमुपचारशतैरपि । व्याधेरन्यस्य न ह्यन्यदोषधं जातु शान्तिकृत् ॥ ६४१ ॥ प्रयोजने परिजनं, स्वं नियोजयति स्म सा । अक्षराणि लिखित्वा भ्रूहस्तादेरथ संज्ञया ॥ ६४२ ॥ अन्येद्युः श्रीमती क्रीडोद्याने यातवती सती। एकान्ते समयं प्राप्य, धात्र्योचे पण्डिताख्यया ॥ ६४३॥ मम प्राणा इवाऽसि त्वं, मातेवाऽस्मि तवाऽप्यहम् । अन्योन्यमावयोस्तेन, नाऽस्त्यविश्वासकारणम् ॥६४४ || मौनमालम्बसे पुत्रि !, हेतुना येन शंस तम् । तदुःखसंविभागं मे, दच्या दुःखं लघूकुरु ।। ६४५ ।। * 'तीमङ्गका' सं १ ॥ १ तर्कवितर्ककारिणी । 'दैवतदो ता ॥ For Private & Personal Use Only प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते षष्टो वज्रजङ्गभवः । ॥ २३ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy