________________
-SCARSACCURRENCE
मद्भाग्यप्रेरितेनेव, स्वयम्बुद्धेन मन्त्रिणा । धर्म प्रबोधितो जैनमायुःशेषेऽहमाप्तवान् ॥ ६१७ ॥ इयत्कालं च तद्धर्मप्रभावाच्छीप्रभे प्रभुः । सञ्जातोऽहमतश्श्योप्ये, नाऽलभ्यं लभ्यते क्वचित् ॥ ६१८ ॥
एवमाभापमाणस्य, तस्याऽऽदिष्टो बिडौजसा । दृढधर्माभिधो देवो, जगादैवमुपेत्य तम् ॥ ६१९ ॥ जिनेन्द्रप्रतिमापूजा, कर्तुं नन्दीश्वरादिषु । यास्यत्यैशानकल्पेन्द्रस्त्वमप्येहि तदाज्ञया ॥ ६२०॥ अहो! भाग्यवशात् कालोचितं मे स्वामिशासनम् । इति प्रमुदितोऽचालील्ललिताङ्गः सवल्लभः ॥६२१॥ गत्वा नन्दीश्वरे सोर्हत्प्रतिमाः शाश्वतीस्ततः । आनर्च विस्मृतासन्नच्यवनः परया मुदा ॥६२२॥ ततोऽप्यन्येषु तीर्थेषु, गच्छन् स्वच्छेन चेतसा । सोऽगादभावं क्षीणायुः, क्षीणतैलप्रदीपवत् ॥ ६२३ ॥
जम्बूद्वीपे ततः पूर्वविदेहेप्पसागरम् । महानद्याश्च सीताभिधानाया उत्तरे तटे ॥ ६२४॥ विजये पुष्कलावत्यां, लोहार्गलमहापुरे । राज्ञः सुवर्णजङ्घस्य, लक्ष्म्यां पल्यां सुतोऽभवत् ॥६२५॥
[युग्मम् ॥] अथ कन्दलितानन्दावमुष्य दिवसे शुभे । वज्रजङ्ग इति प्रीती, पितरौ नाम चक्रतुः ॥ ६२६ ॥
स्वयम्प्रभाऽपि दुःखार्ता, कालेन कियताऽप्यथ । धर्मकर्मणि संलीना, व्यच्योष्ट ललिताङ्गवत् ॥६२७ | नगर्या पुण्डरीकिण्यां, विजयेऽत्रैव चक्रिणः। वज्रसेनस्य भार्यायां, गुणवत्यां सुताऽभवत् ॥ ६२८ ॥ सर्वलोकातिशायिन्या, श्रियाऽसौ संयुता ततः । श्रीमतीत्यभिधानेन, पितृभ्यामभ्यधीयत ।। ६२९ ॥ लतेबोद्यानपालीभिर्धात्रीभिर्लालिता सती । मृद्वङ्गी विलसत्पाणिपल्लवा ववृधे क्रमात् ॥६३०॥
Jain Education Internatione
For Private & Personal use only
www.jainelibrary.org.