________________
त्रिपष्टि
शलाका
पुरुषचरिते
।। २२ ।।
Jain Education Intera
रममाणस्तया सार्द्धं, गते काले कियत्यपि । आत्मच्यवन चिह्नानि, ललिताङ्गो व्यलोकयत् ॥ ६०२ ॥ तस्य रत्नाभरणानि, निस्तेजस्कानि जज्ञिरे । मम्लुच मौलिमाल्यानि, तद्वियोगभयादिव ॥ ६०३ ॥ मालिन्यं भेजिरे सद्यस्तस्याऽङ्गं वसनानि च । आसन्ने व्यसने लक्ष्म्या, लक्ष्मीनाथोऽपि मुच्यते ॥ ६०४॥ भोगेष्वत्यन्तमासक्तिस्तस्याऽभूद् धर्मबाधया । प्रकृतिव्यत्ययः प्रायो, भवत्यन्ते शरीरिणाम् ।। ६०५ ।। जजल्प शोकविरसं, तस्य सर्वः परिच्छदः । भाविकार्यानुसारेण, वागुच्छलति जल्पताम् ॥ ६०६ ॥ आकालप्रतिपन्नाभ्यां, प्रियाभ्यां च सहैव हि । कृतापराध इव स, श्रीहीभ्यां पर्यमुच्यत ॥ ६०७ ॥ अदीनोऽपि हि दैन्येन, विनिद्रोऽपि हि निद्रया । स शिश्रिये मृत्युकाले पक्षाभ्यामिव कीटिका ||६०८ || हृदयेन समं तस्य, विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः, कल्पवृक्षाचकम्पिरे ।। ६०९ ।। तस्याऽरुजोऽप्यभज्यन्त, सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतियानोत्थवेदनाशङ्कनादिव ॥ ६१० ॥ पदार्थग्रहणे तस्याऽपदुर्दृष्टिरजायत । तथैव स्थितिमन्येपामक्षमेव निरीक्षितुम् ।। ६११ ॥ गर्भावास निवासोत्थदुःखागमभयादिव । प्रकम्पतरलान्यङ्गान्यस्याऽजायन्त तत्क्षणम् ॥ ६१२ ॥ क्रीडागिरि-सरिद्वापी-दीर्घिकोपवनेषु सः । रम्येष्वपि रतिं नाप, सैंपाकल इव द्विपः ॥ ६१३ ॥
ततः स्वयम्प्रभाऽवोचदपराद्धं न किं मया ? । विमनस्कतया देव !, यदेवमुपलक्ष्यसे ॥ ६१४ ॥ ललिताङ्गोऽप्युवाचैवं नाऽपराद्धं प्रिये ! त्वया । अपराद्धं मया सुभ्रु !, यदल्पं प्राकृतं तपः ॥ ६१५ ॥ भोगेषु जागरूकोsहं, धर्मे सुप्त इवाऽनिशम् । पूर्वजन्मन्यभूवं हि, विद्याधरनरेश्वरः ॥ ६१६ ॥ १ विष्णुः । २ परिवारः । सपङ्किल सं १ ॥ ३ पाकलो गजज्वरः ।
For Private & Personal Use Only
TEETHE
प्रथमं पर्व
प्रथमः
सर्गः ऋषभ
चरितम् ।
पूर्व भवचरिते पञ्चमो ललिताङ्गदेवभवः
।। २२ ।।
www.jainelibrary.org