SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ असत्यं सर्वथा त्याज्यमसत्यवचनेन यत् । चिरं भ्रमति संसारे, जन्तुस्तृण्येव वात्यया ॥ ५८७ ॥ अदत्तं नाददीतार्थमदत्तादानतो यतः। कपिकच्छ्रफलस्पर्शादिव जातु सुखं न हि ॥ ५८८॥ अब्रह्म परिहर्त्तव्यमब्रह्मचरणेन हि । धृत्वा गले रङ्क इव, नीयते नरके जनः ॥ ५८९ ॥ परिग्रहो न कर्त्तव्यः, परिग्रहवशेन यत् । दुःखपङ्के जनो मन्जत्यतिभारेण गौरिख ॥ ५९॥ पञ्चाऽप्यमृनि हिंसादीन्युत्सृजेद् देशतोऽपि यः । उत्तरोत्तरकल्याणसम्पदा सोऽपि भाजनम् ॥५९१॥ ____ अथ साऽऽसादयामास, संवेगमतिशायिनम् । अयोगोल इवाऽभेद्यः, कर्मग्रन्थिरभिद्यत ॥ ५९२ ॥ महामुनेः पुरः साऽथ, सम्यक् सम्यक्त्वमाददे । प्रतिपेदे जिनोपज्ञं, गृहिधर्म च भावतः ॥ ५९३ ॥ अहिंसादीनि पश्चापि, तदेवाऽणुव्रतानि सा । परलोकाध्वपाथेयभूतानि प्रत्यपद्यत ॥ ५९४ ॥ मुनिनाथं प्रणम्याऽथ, गृहीत्वा दारुभारकम् । जगाम कृतकृत्येव, मुदिता सा स्वमालयम् ॥ ५९५॥ ततः प्रभृति सा तेपे, तपो नानाविधं सुधीः । स्वनामेवाऽविस्मरन्ती, युगन्धरमुनेर्गिरम् ॥ ५९६ ॥ न हि कश्चिदुपायंस्त, दुर्भगां यौवनेऽपि ताम् । कटुतुम्च्याः पक्कमपि, फलमश्नाति कोऽथवा ? ॥५९७॥ ततो विशिष्टसंवेगा, तत्राद्रावेयुषः पुनः । युगन्धरमुनेरग्रे, साऽस्त्यात्तानशनाऽधुना ॥ ५९८॥ तद् गच्छ दर्शयाऽस्याः खं, त्वयि रक्ता सती मृता । सा ते पत्नी भवेदन्ते, या मतिः सा गतिः किल ॥५९९॥3 तच्चके ललिताङ्गोपि, सापि तद्रागिणी सती । मृत्वा खयम्प्रभा नाम, तत्पल्यजनि पूर्ववत् ॥६००॥ प्रणष्टां प्रणयक्रोधादिव प्राप्य प्रियां ततः । स रेमेऽभ्यधिकं तापे, रत्यै छाया हि जायते ॥६०१॥ तृणसमूह इव । २ लोहगोलः । ३ जिनोपदिष्टम् । ४ गृहीतानशना । Jain Education Intern For Private & Personal use only www.iainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy