________________
से किं तं खेत्तोवक्कमे ?, २ जपणं हलकुलिआईहिं खेत्ताइं उवक्कमिजंति, से तं खेत्तोमे (सू०६७ )
क्षेत्रस्योपक्रमः - परिकर्मविनाशकरणं क्षेत्रोपक्रमः, स क इत्याह- 'खेत्तोवक्कमे जं णं हलकुलिआईहिं खेताई उवकमिज्जति' त्ति तत्र हलं - प्रतीतम्, अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं, 'कुलिकं' लघुतरं काष्ठं तृणादिच्छेदार्थ यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदत्र हलकुलिकादिभिः क्षेत्राप्युपक्रम्यन्ते - बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद्गजेन्द्रबन्धनादिभिः क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषुहि क्षेत्रेषु बीजानामप्ररोहणाद् विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते । आह- यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेव एतौ परिकर्मविनाशी, इत्थं च द्रव्योपक्रम एवायं कथं क्षेत्रोपक्रम ? इति सत्यं, किन्तु क्षेत्रमाकाशं तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्यते, दृश्यते च आधेयधर्मोपचार आधारे, यथा मञ्चाः क्रोशन्ति, उक्तं च- "खित्तमरूवं निच्चं न तस्स परिकम्मणं न य विणासो । आहेयगयवसेण उकरणविणासोवयारोऽत्थ ॥ १ ॥" इत्यादि, 'से त' मित्यादि निगमनम् ॥ ६७ ॥ इदानीं कालोपक्रमः, तत्र कालो द्रव्यपर्याय एव, द्रव्यपर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्यो१ क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः | आधेयगतवशेनैव करणविनाशोपचारोऽत्र ॥ १ ॥
Jain Education therational
For Private & Personal Use Only
www.jainelibrary.org