________________
वृत्तिः
अनुयो० मलधारीया
उपक्रमाधि०
॥४७॥
से किं तं अचित्तदव्वोवक्कमे ?, २ खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्तदव्योव
कमे (सू० ६५) 'अचित्तव्योवक्कमे इत्यादि, खण्डादयः-प्रतीता एव, नवरं 'मच्छंडी' खण्डशर्करा एतेषां खण्डायचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि सर्वथा विनाशकरणं वस्तुनाशे, अचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः। 'से त'मित्यादि निगमनम् ॥६५॥ अथ मिश्रद्रव्योपक्रममाह
से किं तं मीसए दव्वोवक्कमे ?, २ से चेव थासगआयंसगाइमंडिए आसाइ, से तं मीसए दव्योवक्कमे, से तं जाणयसरीरभविअसरीरवइरित्ते दबोवक्कमे, से तं नो
आगमओ दव्वोवक्कमे, से तं दव्वोवक्कमे (सू०६६) स्थासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणं, आदिशब्दात् कुङ्कमादिपरिग्रहः । ततश्च | तेषामश्चादीनामेडकान्तानां कुङ्कमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्गादिभिर्विनाशो वा स मिश्रद्रव्योपक्रम इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते, तेऽप्युक्तानुसारेण भावनीयाः। 'से तमित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः ॥६६॥ इतः क्षेत्रोपक्रममभिधित्सुराह
॥४७॥
JainEducation
For Private Personal Use Only
N
ainelibrary.org