________________
से किं तं चउप्पए उवक्कमे ?, २ चउप्पयाणं आसाणं हत्थीणं इच्चाइ, से तं चउप्पए
उवक्कमे (सू० ६३) अत्र निर्वचनम्-'चउप्पयाणं आसाणं हत्थीण'मित्यादि, अश्वादयः प्रतीता एव, तेषां शिक्षागुणविशेषकरणं परिकर्मणि खड्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशे, सचित्तद्रव्योपक्रम इतीहापि वाक्यशेषः। 'से त'मित्यादि निगमनम् ॥ ६३ ॥ अथापदानां द्विविधमप्युपक्रमं बिभणिषुराह
से किं तं अपए उवक्कमे?, २ अपयाणं अंबाणं अंबाडगाणं इच्चाइ, से तं अपओवक्कमे,
से तं सचित्तव्योवक्कमे (सू०६४) अत्र निर्वचनम्-'अपयाणं अंबाणं अंबाडगाणमित्यादि, इहाऽऽम्रादयो देशप्रतीता एव, नवरं 'चाराणंति येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः, आम्रादिशब्दैश्च वृक्षास्तत्फलानि वा गृह्यन्ते, तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रक्षेपकोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे, सचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः। से तमित्यादि निगमनद्वयम् ॥ ६४ ॥ अथाचित्तद्रव्योपक्रमं विवक्षुराह
Jain Education
For Private Personal use only