________________
अनुयो० मलधारीया
वृत्तिः स्कन्धक्षेपः
॥४२॥
तत्राऽऽगमतः स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः तदुपयोगानन्यत्वाद्भावस्कन्धः ॥६५॥
से किं तं नोआगमओ भावखंधे ?, २ एएस चेव सामाइअमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं आवस्सयसुअखंधे भावखंधेत्ति लब्भइ, से तं नोआग
मओ भावखंधे, से तं भावखंधे (सू० ५६) नोआगमतस्तु एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः, स चैतेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव स्यादत उच्यते-समुदयस्य समितिः-नैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापितायःशलाकानामिव परस्परनिरपेक्षाणामपि स्यादत उच्यते-तस्याः समुदयसमितेयः। समागमः-परस्परं सम्बद्धतया विशिष्टैकपरिणामः समुदयसमितिसमागमस्तेन निष्पन्नो य आवश्यकश्रुतस्कन्धः स भावस्कन्ध इति 'लभ्यते' प्राप्यते भवति इति हृदयम् । इदमुक्तं भवति-सामायिकादिषडध्ययनसंह|तिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भावस्कन्धः, नोशब्दस्य देशे आगमनिषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः । 'से तमि'त्यादि निगमनम् । तदेवं प्रतिपादितो विविधोऽपि भावस्कन्ध इति निगमयति-से तं भावखंधेत्ति॥५६॥ इदानीं त्वस्यैव एकार्थिकान्यभिधित्सुराह
X
॥४२॥
Jain Education
,
For Private
Personal Use Only