________________
Jain Educatio
तयोर्यथोक्तदेशयोर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्यः समुदायः सोऽनेकद्रव्यस्कन्धः, सचेतनाचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूतः सामर्थ्यात्तुरगादिस्कन्ध एव प्रतीयते । यद्येवं तर्हि कृत्स्नस्कन्धादस्य को विशेष इति चेद्, उच्यते स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षया, अयं तु नखाद्यपेक्षयाऽपीति विशेषः । पूर्वोक्तमिश्रस्कन्धादस्य तर्हि को विशेष इति चेद्, उच्यते, तत्र खड्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम् । अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । 'से त' मित्यादि निगमनम् । तदेवमुक्तो ज्ञशरीरभव्यशरीरव्यति रिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमतो द्रव्यस्कन्धविचारः, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति ॥ ५३ ॥ अथ भावस्कन्धनिरूपणार्थमाह
।
से किं तं भावखंधे ?, २ दुविहे पण्णत्ते, तंजहा- आगमओ अ नोआगमओ अ ( सू० ५४) अत्रोत्तरम् — 'भावखंधे दुविहे' इत्यादि, भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च द्विविधः प्रज्ञतः, तद्यथा-आगमतश्च नोआगमतश्च ॥ ५४ ॥
से किं तं आगमओ भावखंधे १, २ जाणए उवउत्ते, से तं आगमओ भावखंधे (सू० ५५)
tional
For Private & Personal Use Only
rock
2 www.jainelibrary.org