________________
यद्येवं प्रकारान्तरत्वमसिड, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, नैतदेवं,प्राग् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि वुद्ध्या निष्कृष्य जीवा एवोक्ताः, इह तु जीवतधिष्ठितशरीरावयवलक्षणः समुदायः कृत्लस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । यद्येवं तर्हि हयादिस्कन्धस्य कृत्लत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवं, यतोऽसङ्घयेयप्रदेशात्मको जीवस्तधिष्ठिताश्च शरीरावयवा इत्येवंलक्षणः समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासङ्ख्ययप्रदेशात्मकतया सर्वत्र तुल्यत्वाद्गजादिस्कन्धस्य बृहत्तरत्वमसिद्धं, यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्डेत तदा स्याद्गजादिस्कन्धस्य बृहत्त्वं, तच्च नास्ति, समुदायवृद्ध्यभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुद्गलसमुदायस्य हीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्लस्कन्धाः । अन्ये तु पूर्व सचित्तस्कन्धविचारे जीवतधिष्ठितशरीरावयवसमुदायः सचित्तस्कन्धोऽत्र तु शरीरात् बुद्ध्या पृथक्कृत्य जीव एव केवलः कृत्लस्कन्ध इति व्यत्ययं व्याचक्षते, अत्र च व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादित्यलं प्रसङ्गेन ॥ ५१ ॥ 'से त' मित्यादि निगमनम् । अथाकृलस्कन्धनिरूपणार्थमाह
से किं तं अकसिणखंधे ?, २ सो चेव दुपएसियाइखंधे जाव अणंतपएसिए खंधे, से तं अकसिणखंधे (सू० ५२)
Jain Education in
For Private & Personel Use Only
Fellainelibrary.org