________________
वृत्तिः
अनुयो. मलधारीया
स्कन्ध
॥४०॥
ASHISHASRAERSARAS
अत्रोत्तरम्-'मीसए दव्वखंधे सेणाएं' इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः स चासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः, कोऽसावित्याह-सेनायाः-हस्त्यश्वरथपदातिसन्नाहखङ्गकुन्तादिसमुदायलक्षणायाः अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकं, पश्चिमस्कन्धः पश्चिमानीकम् , एतेषु हि हस्त्यादयः सचित्ताः खड्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भावनीयमिति । 'से तमित्यादि निगमनम् । तदेवमेकेन प्रकारेण तद्व्यतिरिक्तो द्रव्यस्कन्धः प्ररूपितः॥४९॥ अथ तमेव प्रकारान्तरेण प्ररूपयितुमाह
अहवा जाणयसरीरभविअसरीरवइरित्ते दव्वखंधे तिविहे पण्णत्ते, तंजहा-कसिणखंधे
अकसिणखंधे अणेगदवियखंधे (सू० ५०) | 'अथवा' अन्येन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा-कृत्लस्कन्धः अकृत्लस्कन्धोऽनेकद्रव्यस्कन्धः॥४९॥ तत्राऽऽद्यभेदनिरूपणार्थमाह
से किं तं कसिणखंधे ?, २ से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे, से तं कसिण
खंधे (सू० ५१) अनोत्तरम्-'कसिणक्खंधे इत्यादि, यस्मादन्यो बृहत्तरः स्कन्धो नास्ति स कृत्ला-परिपूर्णः स्कन्धः कृ-IM लस्कन्धः, कोऽयमित्याह-से चेवेत्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिस्कन्धः कृत्लस्कन्धः। आह
॥४०॥
Jain Educat
i onal
For Private & Personel Use Only
Lww.jainelibrary.org