SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अनुयो० वृत्तिः मलधा श्रुतनि रीया काविलं लोगायतं सट्ठियंतं माढरपुराणवागरणनाडगाइ, अहवा बावत्तरिकलाओ च तारि वेआ संगोवंगा, से तं लोइयं नोआगमतो भावसुअं (सू० ४१) अत्र निर्वचनम-'लोइयं भावसुअंजं इममित्यादि, लोकैः प्रणीतं लौकिकं, किं पुनस्तदित्याह-यदिदमज्ञानिकैमिथ्यादृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितं तल्लौकिकं भावश्रुतमिति सम्बन्धः, तत्राल्पज्ञानभावतोऽधनवदशीलवद् वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धिविकल्पितम् , ईहावग्रहे बुद्धिः अपायधारणे तु मतिः, खच्छन्देन-खाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसार-| मन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं-स्वबुद्धिविकल्पनाशिल्पिनिर्मितमित्यर्थः ।। तत्प्रकटनार्थमेवेदमाह-'तद्यथा-भारतमित्यादि, एतच्च भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धिगम्यम्। अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थमाह-'अहवा बावत्तरिकलाओं' इत्यादि, तत्र कलनानि-वस्तुप-| |रिज्ञानानि कलास्ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धाः, चत्वारश्च वेदाः (ग्रन्थानम् १०००) सामवे-: दऋग्वेयजुर्वेदाथर्वणवेदलक्षणाः साङ्गोपाङ्गाः, तत्राङ्गानि शिक्षा १ कल्प २ व्याकरण ३ च्छन्दो ४ निरुक्त ५ज्योतिष्कायन ६ लक्षणानि षट्, उपाङ्गानि तद्व्याख्यानरूपाणि तैः सह वर्तन्ते इति साङ्गोपाङ्गाः। 'से तमि'त्यादि निगमनम् ॥४१॥ उक्तं नोआगमतो लौकिकं भावश्रुतम् , अथ लोकोत्तरिकं तदेवाऽऽह ॥३६॥ For Private Personel Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy