________________
अनुयो० मलधारीया
वृत्तिः श्रुतनि
क्षेपः
CARDSCAMROSCOREGAON
त्यज्य रसो गृह्यते, तत्र च कश्चिद् योगः प्रक्षिप्यते, ततस्तेन यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथश्चिद्रागं न मुश्चन्ति, 'से तमित्यादि निगमनम् । अथ चतुर्थों भेद उच्यते-से किं तमित्यादि, अनोत्तरम्-'वालयं पंचविह'मित्यादि, वालेभ्यः-ऊरणिकादिलोमभ्यो जातं वालजं, तत् पञ्चविधं प्रज्ञप्त, तद्यथा-ऊर्णाया इदमौर्णिकम् , उष्ट्राणामिदमौष्टिकम् , एते द्वे अपि प्रतीते, ये मृगेभ्यो इखका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोमिकम् , उन्दुररोमनिष्पन्नं कौतवं, ऊर्णादीनां यदुद्धरितं किट्टिसं तन्निष्पन्नं सूत्रमपि किहिसम् , अथवा एतेषामेवोर्णादीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किसिं, अथवा उक्तशेषाश्वादिलोमनिष्पन्नं किसिं 'से तमित्यादि निगमनम् । अथ पञ्चमो भेदोऽभिधीयते-से किं तमित्यादि, वल्काजातं वल्कजं, तच सणप्रभृति, कचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवादिदेशप्रसिद्धं, से तमित्यादि निगमनम् । उक्तं पञ्चविधमण्डजादिसूत्रं, तणने चोक्तं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्, अतस्तदपि निगमयति-'से तं जाणगे'त्यादि, एतद्भणने च समर्थितं नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयति-से तं नोआगमओ'इत्यादि, एतत्समर्थने च समर्थितं द्विविधमपि | द्रव्यश्रुतमतस्तदपि निगमयति-से तं वसुअमित्यादि ॥ ३७॥ अथ भावश्रुतनिरूपणार्थमाह
से किं तंभावसुअं?,२ दुविहंपण्णत्तं, तंजहा-आगमतो अनोआगमतो अ (सू०३८) अत्रोत्तरम्-'भावसुअं दुविहमित्यादि, विवक्षितपरिणामस्य भवनं भावः स चासौ श्रुतं चेति भाव
पुनरतस्य
निगमयति निगमयति तदपि निगमक्क पञ्चविध
से
Jain Education
For Private & Personel Use Only
A
w
.jainelibrary.org