________________
Jain Education
भेद उच्यते - 'से किं तमित्यादि, अत्र निर्वचनम् - 'बोंडयं फलिहमाह' त्ति बोंडं वमनीफलं तस्माज्जातं बोण्डजं, फलिही- वमनी तस्याः फलमपि फलिहं कर्पासाश्रयं कोशकरूपं, तदिहापि कारणे कार्योपचाराद्वोण्डजं सूत्रमुच्यते इति भावः, 'से तमित्यादि निगमनम् । अथ तृतीयभेद उच्यते- 'से किं तमित्यादि, अत्रोत्तरम् -' कीडयं पंचविहमित्यादि कीटाज्जातं कीटजं-सूत्रं तत् पञ्चविधं प्रज्ञप्तं, तद्यथा- 'पट्टे' त्ति पट्टसूत्रं मलयम् ' अंशुकं' चीनांशुकं कृमिरागम्, अत्र वृद्धव्याख्या - किल यत्र विषये पट्टसूत्रमुत्पद्यते, तत्रारण्ये वननिकुञ्ज - स्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुञ्जाः क्रियन्ते तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्तः पतङ्गकीटाः समागत्य मांसाद्यामिषोपभोगलुब्धाः कीलकान्तरेष्वितस्ततः परिभ्रमन्तो लालाः प्रमुञ्चन्ति ताश्च कीलकेषु लग्नाः परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधी यते, अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम्, इत्थमेव चीनविषये बहिस्तादुत्पन्नं तदेवांशुकं, इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते, क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात् तु पट्टसूत्रादिव्यपदेश इति भावः । एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूताः कृमयः समुत्पद्यन्ते, ते च वाताभिलाषिणो भाजनच्छिद्रैर्निर्गत्य आसन्नं पर्यदन्तो यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते तच्च रक्तवर्णकृमिसमुत्थत्वात् खपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति - यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किहिसं परि
For Private & Personal Use Only
w.jainelibrary.org