SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अनुयो. मलधारीया वृत्तिः श्रुतनिक्षेपः ॥३४॥ श्रुतकारणत्वात् द्रव्यत्वमवसेयं, नोआगमत्वं तु आगमतो द्रव्यश्रुत इव आगमकारणस्यात्मदहशब्दत्र-16 यरूपस्याभावादु भावनीयम् । तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुक्तं, साम्प्रतं तदेव प्रकारान्तरेण निरूपयितुमाह-'अहवे'त्यादि, अथवा श्रुतं पश्चविधं प्रज्ञप्त, तद्यथा-'अंडयमि'त्या-18 दि, अत्राऽऽह-ननु श्रुते प्रक्रान्ते सूत्रस्य प्ररूपणमप्रस्तुतं, सत्यं, किन्तु प्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्य च सूत्रलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोषः, प्रसङ्गतोऽण्डजादिसूत्रवरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति, अत एव भावश्रुते प्रक्रान्ते नामश्रुतादिप्ररूपणमप्रस्तुतमित्याद्यपि प्रेर्यमपास्तं, तस्यापि शिष्यव्युत्पादनादिफलत्वात्, न च भावश्रुतप्रतिपक्षस्य नामश्रुतादेः प्ररूपणमन्तरेण भाव श्रुतस्य निर्दोषत्वादिस्वरूपनिश्चयः कर्तु पार्यते, 'जे सव्वं जाणइ से एगं जाणइत्ति वचनादित्यलं विस्तरेण । अत्राऽऽद्यभेदज्ञापनार्थमाह-से किं तमित्यादि, अनोत्तरम्-'अंडयं हंसगम्भाईत्ति अण्डाजातमण्डजं हंसः-पतङ्गश्चतुरिन्द्रियो जीवविशेषः, गर्भस्तु तन्निर्वर्तितः कोसिकाकारो, हंसस्य गर्भो हंसगर्भः, तदुत्पन्नं सूत्रमण्डजमुच्यते, आदिशब्दः खभेदप्रख्यापनपरः । ननु यदि हंसगर्भोत्पन्नसूत्रमण्डजमुच्यते तर्हि सूत्रे 'अंडयं हंसगन्भाइ'त्ति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव, सत्यं, कारणे कार्योपचारात् तदविरोधः, कोशकारभवं सूत्रं चटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयं, पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये, 'से तमित्यादि निगमनम् । अथ द्वितीय-| ॥३४॥ Jain Education International For Private 3 Personal Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy