SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ GACAS DESCRECOGNOCCASSACROCOCC ३-३-११३ )इति वचनात् भावसाधना, ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं, :जानाति स्वविषयं परिच्छिनत्तीति वा ज्ञानं-ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जीवखतत्त्वभूतो बोध इत्यर्थः, 'पञ्चविहंति' पञ्चेति-सङ्घयावचनो विधानानि विधा:-भेदाः पञ्च विधा अस्येति पञ्चविधं-पञ्चप्रकारमित्यर्थः, 'पण्णतंति' प्रज्ञप्तमर्थतस्तीर्थकरैः सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मनः स्वमनीषिका परिहृता भवति, अथवा प्राज्ञात्-तीर्थकरादाप्त-प्राप्तं गणधरैरिति प्राज्ञाप्तम्, अथवा-प्राज्ञैः-गणधरैस्तीर्थकरादात्तंगृहीतमिति प्राज्ञातं, प्रज्ञया वा भव्यजन्तुभिराप्त प्राप्तं प्रज्ञाप्तं, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, हखत्वं सर्वत्र प्राकृतत्वादित्यवयवार्थः, अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभिः प्रज्ञप्तमिति सम्बन्धः, कतिविधमिति, अत्रोच्यते, पञ्चविधमिति ॥ तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह-तंजहेत्यादि' तद्यथेत्युपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुख्ये नीति नैयत्ये, ततश्चाभिमुखो-वस्तुयोग्यदेशावस्थानापेक्षी नियत-इन्द्रियाण्याश्रित्य खखविषयापेक्षी बोधः अभिनिवोध इति भावसाधनः, स्वार्थिकतद्धितोत्पादात्स एवाभिनिबोधिकम् , अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति कर्मसाधनो वा, अभिनिवुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनियोधिकमिति तथैव, आभिनिबोधिकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम्-इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः । श्रवणं-श्रुतम् अभिलापप्लावितार्थग्रहणखरूप उपलब्धिविशेषः, श्रुतं च तद् ज्ञानं च श्रुतज्ञा S ESAMAROSAROCROSS Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy