SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो. मलधा अनुयो० अधि० रीया ॥१॥ मासाद्य विरत्यनुगुणपरिणाम प्रतिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्परमार्थ विज्ञाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यं, तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमग्रसामग्रीफलत्वात् । स चानुयोगो यद्यप्यनेकग्रन्थविषयः संभवति, तथापि प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात्प्रथममनुयोगद्वाराणामसौ विधेयः । जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रमनिक्षेपानुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिवाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः । स च यद्यपि चूर्णिटीकाद्वारेण वृद्धैरपि विहितः, तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौत्सुक्यभावतोऽविचारितखशक्तित्वादल्पधियामनुग्रहार्थत्वाच कर्तुमारभ्यते ॥ ॥नाणं पंचविहं पण्णत्तं, तंजहा-आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपजव नाणं केवलनाणं (सू०१-५०९) अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोभूतत्वात् संभाव्यमानविनत्वात् तदुपशमार्थ शिष्टसमयपरिपालनार्थ चादौ मङ्गलरूपं सूत्रमाह-नाणं पञ्चविहं'इत्यादि, व्याख्या-ज्ञातिर्ज्ञानं कृत्यल्युटो बहुलं (पा० Jain Education na ..... For Private & Personal use Only ................. jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy