________________
श्रेष्ठि देवचन्द्र लालभाइ-जैनपुस्तकोद्धार-ग्रन्थाङ्के
॥अहम् ॥ श्रीमद्गणधरप्रवरगौतमस्वामिवाचनानुगतम् । श्रीमन्मलधारीयहेमचन्द्रसूरिसंदृब्धवृत्तियुतम् ।
श्रीअनुयोगद्वारसूत्रम् ।
54545455
ऐं नमः । श्रीवीतरागाय नमः॥ सम्यक्सुरेन्द्रकृतसंस्तुतिपादपद्म-मुद्दामकामकरिराजकठोरसिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधिं सुधीरम् ॥१॥ अनुयोगभृतां पादान् वन्दे श्रीगौतमादिसूरीणाम् । निष्कारणबन्धूनां विशेषतो धर्मदावृणाम् ॥२॥ यस्याः प्रसादमतुलं संप्राप्य भवन्ति: भव्यजननिवहाः । अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वन्दे ॥ ३॥ इहातिगम्भीरमहानीरधिमध्यनिपतितानर्घ्यरत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपि लब्ध्वा त्रिभुवनैकहितश्रीमजिनप्रणीतबोधिलाभं स
134344
अनु. १
Jan Education Inter!
For Private Personal use only