________________
अनुयो० मलधा
वृत्तिः अनुयो अधिक
रीया
नम्, अथवा श्रूयत इति श्रुतं-शब्दः स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । अवधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् , अवधिरेव ज्ञानमवधिज्ञानम्, अथवा अवधिः-मर्यादा तेनावधिना-रूपिद्रव्यमर्यादात्मकेन र ज्ञानमवधिज्ञानं । संज्ञिभिर्जीवैः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसां पर्यायाः-चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं मनःपर्यायज्ञानम् , अथवा यथोक्तखरूपाणि मनांसि पर्येति-अवगच्छतीति मनःपर्यायमिति कर्मण्यण् (पा० ३-२-१), तच तद ज्ञानं च मन:पर्यायज्ञानं । केवलं-संपूर्णज्ञेयविषयत्वात् संपूर्ण तच तद् ज्ञानं च केवलज्ञानमिति ॥ अवग्रहादिभेदचिन्ता त्वेतेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्त्वाचेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनामत एव सकाशात्प्रतीयते, उपक्रमाद्यनुयोगदाराणामेवेहाभिधास्यमानत्वात् । प्रयोजनं तु प्रकरणकर्तृश्रोत्रोः प्रत्येकमनन्तरपरम्परभेदाचिन्तनीयं, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनं, श्रोतुश्च प्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षानोक्तं तथापि सामर्थ्यावसीयते, तथाहि-सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदि-13 शन्ति, तदनुग्रहे च क्रमेण परमपद्माप्तिः प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणार्थ विजानाति, तत्परिज्ञाने
ASS
Jan Education in
For Private
Personel Use Only
www.jainelibrary.org