SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Educatio से किं तं नामसु ?, २ जस्स णं जीवस्स वा जाव सुएत्ति नामं कज्जइ से तं नामसुअं ( सू० ३० ) अत्र निर्वचनं - नामश्रुतं, 'जस्स णमित्यादि, यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा श्रुतमिति यन्नामक्रियते तन्नामश्रुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः, अथवा यस्य जीवादेः श्रुतमिति नाम क्रियते तज्जीवादिवस्तु नामश्रुतं, नाम्ना नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः । तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवमभ्यूह्य वाच्या, 'से तमित्यादि निगमनम् ॥ ३० ॥ उक्तं नामश्रुतम्, अथ स्थापनाश्रुतनिरूपणार्थमाह से किं तं ठेवणासु ?, जं णं कटुकम्मे वा जाव ठवणा ठविज्जइ से तं ठेवणासु । नामठवणाणं को पइविसेसो ?, नाम आवकहिअं ठवणा इत्तरिआ वा होज्जा आवकहिआ वा ( सू० ३१ ) अत्र निर्वचनम् - 'ठवणासुअं जं णमित्यादि, अत्र व्याख्यानं यथा स्थापनावश्यके तथा सप्रपञ्चं द्रष्टव्यं, नवरमावश्यकस्थाने श्रुतमुच्चारणीयं, काष्ठकर्मादिषु श्रुतपठनादिक्रियावन्त एकादिसाध्वादयः स्थाप्यमानाः tional For Private & Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy