SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा वृत्तिः रीया ॥३१॥ सम्बन्धं चिरकालीनमप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसम्बन्धमपनयतीत्यावश्यकमपि न्याय उच्यते, तथा मोक्षाराधनाहेतुत्वादाराधना, तथा मोक्षपुरप्रापकत्वादेव मार्ग इति गाथार्थः ॥१॥ श्रुतनिउक्तगाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाह–'समणेण' गाहा, श्रमणादिना अहोरात्रस्य मध्ये | क्षेपः यस्मादवश्यं क्रियते तस्मादावश्यकम् , एवमेवावश्यकरणीयादिपदानामपि व्युत्पत्तिद्रष्टव्या उपलक्षणत्वादस्याः, इति गाथार्थः ॥१॥'से तमित्यादि निगमनं, तदेतदावश्यक निक्षिप्तमित्यर्थः । तदेवं नामादिभेदैनिक्षिसमावश्यक, तन्निक्षेपे च यदुक्तम्-'आवश्यकं निक्षेप्स्यामीति तत् सम्पादितम् , [इति अनुयोगद्वारग्रन्थे आवश्यकाधिकारः कथितः ।। २८ ॥ अथ श्रुताधिकारः कथ्यते साम्प्रतं पुनर्यदुक्तम्-'श्रुतं निक्षेप्स्यामीति तत्सम्पादनार्थमाह से किं तं सुतं ?, २ चउव्विहं पण्णत्तं, तंजहा-नामसुअं ठवणसुअं व्वसुअंभाव सुअं (सू० २९) अथ किं तत् श्रुतमिति प्रश्नः, अत्र निर्वचनं 'सुअं चउब्विहमित्यादि, 'श्रुतं' प्राग्निरूपितशब्दार्थ चतुविधं प्रज्ञप्त, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भावश्रुतं च ॥ २९॥ तत्राऽऽद्यभेदनिर्णयार्थमाह ॥३१॥ + in Education intona For Private & Personal Use Only Hw.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy