________________
अनुयो०
मलधा
रीया
॥ ३० ॥
.स तथा तथा 'तदर्थोपयुक्तः' तस्य आवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः प्रशस्ततरसंवेगविशुड्यमानः, तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः तथा 'तदर्पितकरण:' करणानि तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन् - आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि तानि येन स तथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थः, तथा 'तद्भावनाभावितः तस्य आवश्यकस्य भावना - अव्यवच्छिन्नपूर्वपूर्वतर संस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितोऽङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरि णामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वाद्वाचं कार्य चान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणी श्राविकयोरपि योज्यानि, तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादयः 'उभयकालम् ' उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं, भावनाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम्, अत्राप्यवश्यंकरणादावश्यकत्वं तदुपयोग परिणामस्य च सद्भावात् भावत्वं मुखवस्त्रिकाप्रत्युपेक्षण| रजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वात् नोआगमत्वं भावनीयम्, 'से तमित्यादि निगमनम् ॥ २७ ॥ तदेवं खरूपत उक्तं भावावश्यकम् अनेन चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह
तस्स णं इमे एगट्टिआ णाणाघोसा णाणावंजणा णामधेजा भवंति, तंजहा - आव
Jain Education International
For Private & Personal Use Only
वृत्तिः अनुयो० अधि०
॥ ३० ॥
Www.jainelibrary.org