SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ से किं तं लोगुत्तरिअं भावावस्सयं १, २ जण्णं इमे समणे वा समणी वा सावओ वा सावि वा चित्तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदपिकरणे तब्भावणाभाविए अण्णत्थ कत्थइ मणं अकरेमाणे उभओकालं आवरस्यं करेंति से तं लोगुत्तरियं भावावस्स्यं, से तं नोआगमतो भावावस्तयं, से तं भावावस्सयं (सू० २७ ) अत्र निर्वचनम् -'लोउत्तरियं भावावस्सयं जं णमित्यादि 'जं णं'ति णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमण:- साधुः, श्रमणी - साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावकः - श्रमणोपासकः, श्राविका - श्रमणोपासिका, वाशब्दाः समुच्चयार्थाः तस्मिन्नेवाऽऽवश्यके चित्तं - सामान्योपयोगरूपं यस्येति स तचित्तः, तस्मिन्नेव मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्याशुभपरिणामरूपा यस्येति स तल्लेश्यः, तथा तदध्यवसितः - इहाध्यवसायोऽध्यवसितं ततञ्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीत्राध्यव - सायः - तस्मिन्नेवाऽऽवश्यके तीव्रं प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy