________________
अनुयो०
मलधा
रीया
॥ २९ ॥
Jain Education
लिहोमादीनि भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकमिति सम्बन्धः । तत्र चरकादिखरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिखरूपं तृच्यते तत्र यजनमिज्या याग इत्यर्थस्तद्विषयो जलस्याञ्जलिः इज्याञ्जलिः यागदेवतापूजावसरभावीति हृदयम्, अथवा यजनमिज्या- पूजा गायत्र्या - दिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलिः इज्याञ्जलिः, अथवा देशी भाषया इज्येति माता तस्या नमस्कारविधौ तद्भक्तैः क्रियमाणः करकुड्मलमीलन लक्षणोऽञ्जलिरिज्याञ्जलिः, होम:- अग्निहोत्रकैः क्रियमाणमग्निहवनं जपो मन्त्राद्यभ्यासः 'जंदुरुक्क' त्ति देशीवचनं उन्दुमुखं तेन रुकं वृषभादिशब्दकरणमुन्दुरुक्कं | देवतादिपुरतो वृषभगर्जितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः, एतेषां द्वन्छे इज्याञ्जलिहोमजपोन्दुरुक्कनमस्कारास्ते आदिर्येषां तानि तथा, आदिशब्दात् स्तवादिपरिग्रहः, एतेषां च चरकादिभिरवश्यं क्रियमाणत्वादावश्यकत्वम् एतत्कर्तॄणां च तदर्थोपयोगश्रद्धादिपरिणाम सद्भावात् भावत्वम्, अन्यच चरकादीनां तदर्थोपयोगलक्षणो देश आगमः देशस्तु करशिरोव्यापारादिक्रियालक्षणो नोआगमस्ततो देश आगमाभावमाश्रित्य नोआगमत्वमवगन्तव्यं, नोशब्दस्येहापि देशनिषेधपरत्वात्, तस्माच्चरका यस्तदुपयुक्ता यथावसरं यद्वश्यमिज्याञ्जल्यादि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं, भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव, 'से तमित्यादि निगमनम् ॥ २६ ॥ उक्तो नोआगमतो भावावश्यकद्वितीयभेदः, अथ तृतीय भेदनिरूपणार्थमाह
For Private & Personal Use Only
वृत्तिः
अनुयो० अधि०
॥ २९ ॥
v.jainelibrary.org