________________
यत्वादावश्यकत्वं, तद्वाचकस्य श्रोतृणां च तदर्थोपयोगपरिणामसद्भावात् भावत्वं, तद्वाचकाः श्रोतारश्च पत्रकपरावर्तनहस्ताभिनयगात्रसंयतत्वकरकुमलमीलनादिक्रियायुक्ताभवन्ति, क्रियाच नोआगमत्वेन प्रागिहोक्ता 'किरियाऽऽगमो न होइ'त्ति वचनात्, ततश्च क्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वमपि भावनीयं, नोशब्दस्यात्र देशनिषेधवचनवाद, देशे वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात्, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादि वाचयन्ति शृण्वन्ति वा तल्लौकिकं भा-| वावश्यकमिति स्थितं भावमाश्रित्याऽऽवश्यकं भावावश्यकं, भावश्चासावावश्यक चेति वा भावावश्यकमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ २५ ॥ उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्वितीयभेदनिरूपणार्थमाह
से किं तं कुप्पावयणियं भावावस्सयं ?, २ जे इमे चरगचीरिंग जाव पासंडत्था इज्जजलिहोमजपोन्दुरुक्कनमोक्कारमाइआइं भावावस्सयाइं करेंति से तं कुप्पावयणिअं
भावावस्सयं (सू० २६) अत्र च निर्वचनमाह-'कुप्पावयणियं भावावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते तथा तेषु भवं कुमावचनिकं भावावश्यकं, किं तद् ?, उच्यते, य एते चरकचीरिकादयः पाषण्डस्था यथावसरं इज्याञ्ज
Jan Education
For Private
Personel Use Only
inelibrary.org