________________
SANGALORDCROSCALAMICROSAGARMA
निगमयति-से तं दवावस्सय मिति, तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः ॥ २१ ॥ उक्तं सप्रपञ्चं द्रव्या|वश्यकं, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह
से किं तं भावावस्सयं?, २ दुविहं पण्णत्तं, तंजहा-आगमतो अनोआगमतो अ (सू० २२) । ___ अथ किं तद् भावावश्यकमिति, अत्र निर्वचनमाह-भावावस्सयं दुविहमित्यादि, वक्तृविवक्षितपरिणामस्य भवनं भावः, उक्तं च-"भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात् ॥१॥” व्याख्या-वक्तुर्विवक्षितक्रियायाः-विवक्षितपरिणामस्य इन्दनादेरनुभवनम्-अनुभूतिस्तया युक्तो योऽर्थः सभापतद्वतोरभदोपचाराद्भावः सर्वज्ञैः समाख्यातः, निदर्शनमाह-इन्द्रादिवदित्यादि, यथा इन्दनादिक्रियानुभवात् परमैश्वर्यादिपरिणामेन परिणतत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः, इत्यार्यार्थः । भावश्चासी आवश्यकं च भावमाश्रित्य वा आवश्यकं भावावश्यकं, तच द्विविधं प्रज्ञप्तं, तद्यथा-आगमतःआगममाश्रित्य नोआगमतः-आगमाभावमाश्रित्य ॥२२॥ तत्राऽऽद्यभेदनिरूपणार्थमाह
से किं तं आगमतो भावावस्सयं ?, २ जाणए उवउत्ते, से तं आगमतो भावावस्सयं (सू० २३) ___ अथ किं तदागमतो भावावश्यकम् ?, अत्राह-आगमओ भावावस्मयं जाणए' इत्यादि, ज्ञायक उपयुक्त आगमतो भावावश्यकम् , इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तजनितसंवेगविशुद्ध्यमानपरिणामस्तत्र चो
यतद्वतोभाववक्षितक्रियायायुक्तो हि वै समा
Jain Educa
t
ion
For Private & Personel Use Only
www.jainelibrary.org