________________
अनुयो
मलधारीया
॥२७॥
वासी कश्चिदग्निभक्तो वणिक् पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्ष वह्निना प्रदीपयति, तं चाविवेकितया तन्न
वृत्तिः गरनरपतिलॊकश्च श्लाघते-अहो ! धन्योऽयं वणिग्, यो भगवन्तं हुतभुजमित्थमौदार्यभक्त्यतिशयाद् रत्न
अनुयो. स्तर्पयति, अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहनः सराजप्रासादं समस्तमपि तन्नगरं दहति स्म,
अधि० असौ च राज्ञा दण्डितो नगराच्च निष्कासितः, तदेवं यथा राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरलोकश्चर नाशितस्तथा त्वमपि अस्याविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि, यदि पुनरेनमेकं शिक्षयसि तदा तथाविधनृप इव सपरिकरो निरपायतामनुभवसि, तथाहि-अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद् वणिगाकर्णितः, ततो नगरदाहापायदर्शिना क्षितीशेन अरण्यं गत्वा किमित्थं न करोषीत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च, एवं त्वमपीत्यादि,उपनयो गतार्थः, इत्यादि बहुप्रकारं भणितो यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधना शेषसाधवोऽभिहिता:-एष गणाधिपो महानिधर्मतास्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति । तदेवं तत् साध्वावश्यकप्रकारं सर्व लोकोत्तरिक द्रव्यावश्यकमिति । निगमयन्नाह से तमि'त्यादि, तदेतल्लोकोत्तरिक द्रव्यावश्यकं, एतद्भणने च ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रव्यावश्यक समर्थितं भवत्यतस्तदपि निगमयति-से तमि'त्यादि, एतत्समर्थने च नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति -से तं नोआगमतो' इत्यादि, एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो
का॥२७॥
MARCRACRECORRECARCH
in Education
OT
For Private Personal use only