________________
केशादिषु मृष्टं विद्यते येषां ते मृष्टवन्तः, वत्प्रत्ययलोपान्मृष्टाः, तथा 'तुप्पोह'त्ति तुप्रा-म्रक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः, तथा मलपरीषहासहिष्णुतादूरीकृतत्वात् पाण्डुरोधौतः पटः-प्रावरणं येषां ते तथा, 'जिनानामनाज्ञया खच्छन्दं विहृत्य' तीर्थकराज्ञाबाह्याः खवरुच्या विविधचेष्टाः कृत्वा तत्रोभयकालं-प्रभातसमयेऽस्तमयसमये च चतुर्थ्यर्थे षष्ठीतिकृत्वा आवश्यकाय-प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्तरिक द्रव्यावश्यकम् , अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाचाप्रधानतयाऽवसेयं, नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावान्नोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति । अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम्-वसन्तपुरे नगरेऽगीतार्थोऽसंविग्नो गच्छ एको विचरति, तत्र श्रमणगुणमुक्तयोगी संविग्नाभासः साधुरेकः प्रतिदिनं पुरःकर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति, तस्मै च गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन् भणति-पश्यत अहो! कथमसौ भावमगोपयन् अशठतया सर्व समालोचयति ?, सुखं हि आसेवना क्रियते, दुःखं चेत्थमालोचयितुं, तस्मादशठतयैव शुद्धोह्यसौ, तथा च तं प्रशस्यमानं दृष्ट्वा तत्र अन्येऽप्यगीतार्थश्रमणाः प्रशंसन्ति, चिन्तयन्ति च-गुरोश्चेदित्थमालोच्यते तर्हि दोषासेवनायामसकृत्कृतायामपि न कश्चिद्दोषः, आलोचनाया एव साध्यत्वाद्, एवं चान्यदा तत्र संविग्नगीतार्थः साधुः कश्चिदायातः, तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्ता-त्वमित्थमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे, तथाहि-गिरिनगर
स्य प्रशंसां कुर्वनगीतार्थः साधुः कसकृतकृतायामाप
Mainelibrary.org
Jain Education indirm
For Private 8 Personal Use Only
al