SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो रीया अधि० अनुयो० | अथ किं तल्लोकोत्तरिक द्रव्यावश्यकम् ?, अत्र निर्वचनमाह-लोकस्योत्तराः-साधवः, अथवा लोकस्योत्तरमलधा प्रधानं लोकोत्तरं-जिनशासनं तेषु तस्मिन् वा भवं लोकोत्तरिकं, द्रव्यावश्यकमिति व्याख्यातमेव, किं पुनस्त|दित्याह-'जे इमें इत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः साध्वाभासा जिनानामना ज्ञया स्वच्छन्दं विहृत्योभयकालमावश्यकाय-प्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक ॥२६॥ द्रव्यावश्यकमिति समुदायार्थः । इदानीमवयवार्थ उच्यते-तत्र श्रमणाः-साधवस्तेषां गुणा-मूलोत्तरगुणरूपाः, तत्र जीववधविरत्यादयो मूलगुणाः पिण्डविशुद्ध्यादयस्तूत्तरगुणाः, तेषु मुक्तो योगो-व्यापारो यैस्तै सर्वधनादेराकृतिगणत्वात् श्रमणगुणमुक्तयोगिनः, एते च जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदा-1 चित् सानुकम्पा अपि स्युरित्याह-षट्सु कायेषु-पृथिव्यादिषु विषये निर्गता-अपगता अनुकम्पा-मनासार्द्र-IP ४ता येभ्यस्ते तथा, निरनुकम्पताचिहमेवाऽऽह-हया इव-तुरगा इव, उद्दामाः-चरणनिपातजीवोपमईनिर पेक्षत्वाद् द्रुतचारिण इत्यर्थः, किमित्येवंभूतास्ते इत्याह-यतो गजा इव-दुष्टद्विरदा इव निरङ्कुशा:-गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, अत एव 'घट्टत्ति येषां जो श्लक्ष्णीकरणार्थ फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'मह'त्ति तैलोदकादिना येषां केशाः शरीरं वा मृष्टं ते तथैव मृष्टाः, अथवा ॥२६॥ १लकः प्र. RSC in Education Interno For Private & Personel Use Only ww.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy