________________
सामायिकमुत्पन्नं तौ वक्तव्यौ, यद्वक्ष्यत्यावश्यके-"वइसाहसुद्धएक्कारसीऍ पुवण्हदेसकालंमि । महसेणवगुजाणे अणंतर परंपर सेसं ॥१॥"ति तथा कुतः पुरुषात्तन्निर्गतमिति वक्तव्यं, तथा केन कारणेन गौतमादयः सामायिक भगवतः समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यं, यदभिधास्यति-"गोयमाई सामाइयं तु किं कारणं निसामितीत्यादि, तथा प्रत्याययतीति प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टं?, केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच्छृण्वन्तीत्येतद्वक्तव्यमित्यर्थः, तथा च वक्ष्यति-"केवलनाणित्ति अहं अरिहा सामाइयं परिकहेई । तेसिपि पच्चओ खलु सव्वन्नू तो निसामिति ॥१॥"त्ति, तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणं, श्रुतसामायिकस्य जीवादिपरिज्ञानं, चारित्रसामायिकस्य सावद्यविरतिः, देशविरतिसामायिकस्य तु विरत्यविरतिखरूपं मिश्रं लक्षणं, निर्देष्यति च-"सद्दहण जाणणा खलु विरई मीसं च लक्खणं कहए'इत्यादि, एवं नैगमादयो नया वाच्याः , तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयो, यतो निवेदयिष्यति-"मूढनइयं सुयं कालियं तु न नया समोअरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो॥१॥” इत्यादि, तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयं, भणिष्यति च
१ वैशाखशुकैकादश्यां पूर्वाह्नदेशकाले । महासेनवनोद्याने अनन्तरं परम्परं शेषमिति ॥ १॥ २ गौतमादयः सामायिकं तु किं कारणं निशाम्यन्ति. ३ केवलज्ञानीसहमहन् सामायिकं परिकथयति । तेषामपि प्रत्ययः खलु सर्वज्ञः ततो निशाम्यन्ति ॥१॥ ४ श्रद्धानं ज्ञानं खलु विरतिमिधं च लक्षणं कथयति. ५ मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥१॥
अनु. ४४
Jain Educat an in
For Private & Personal Use Only
Vodainelibrary.org