________________
| वृत्तिः अनुयो०
रीया
अधि०
शायाम, अर्थशलन्यमानप्रकाशायामिवस्थाः माह-पा
अनुयो सेनापतिः-"गणिमं धरिमं मेजं पारिच्छेनं च वजायं तु । घेत्तूणं लाभत्थं वच्चइ जो अन्नदेसं तु मलधा- 18॥१॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहनामं धणोव्व लोए समुब्वहई
॥२॥” एतल्लक्षणयुक्तः सार्थवाहः, प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः, 'कल्लं पाउप्पभायाए'इत्यादि,
कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते, प्रभातस्यैव विशेषावस्थाः प्राह-'पाउ'इत्यादि, प्रादुः॥२३॥
प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्यां, किश्चिदुपलभ्यमानप्रकाशायामिति भावः, तदनन्तरं 'सुविमलायां' तस्यामेव किश्चित्परिस्फुटतरप्रकाशायाम्, अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते, कथंभूत इत्याह-'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच तदुत्पलं च फुल्लोत्पलं,. कमलो-हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमलौ तयोः, कोमलम्-अकठोरं दलानां नयनयोश्चोन्मीलितम्उन्मीलनं यत्र प्रभाते तत् तथा, अनेन च प्रागुक्तायाः सुविमलतायाः वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनीं पूर्वस्यां दिश्यरुणप्रभावस्थामाह, तदनन्तरं 'उट्ठिए सूरिए'त्ति अभ्युद्गते आदित्ये, कथम्भूते इत्याहरक्ताशोकप्रकाशकिंशुकशुकमुखगुञ्जार्धरागसदृशे' रक्ताशोकप्रकाशस्य किंशुकस्य-पुष्पितपलाशस्य शुकमुखस्य गुञ्जार्धस्य च रागेण सदृशो यः स तथा तस्मिन्, आरक्ते इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके'
१ गण्यं धार्य मेयं परिच्छेद्यं च द्रव्यजातं तु । गृहीत्वा लाभाथै व्रजति योऽन्यदेशं तु ॥१॥ नृपबहुमतः प्रसिद्धो दीनानाथेषु वत्सलः पथि । स सार्थवाहनाम धन्य इव लोके समुदहति ॥२॥
Join Education in
For Private & Personal Use Only
Mainelibrary.org