SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ रिसे कमलागरनलिणिसंडबोहए उढिअंमि सूरे सहस्सरस्सिमि दिणयरे तेअसा जलंते मुहधोअणदंतपक्खालणतेल्लफणिहसिद्धत्थयहरिआलिअअदागधूवपुप्फमल्लगंधतंबोलवस्थाइआई दव्वावस्सयाइं करेंति, ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा । उज्जाणं वा सभं वा पवं वा गच्छन्ति, सेतं लोइयं दव्वावस्सयं (सू० १९) अत्र निर्वचनमाह-लोइयमित्यादि, लोके भवं लौकिकं शेषं तथैव, अत्र राजेश्वरतलवरादयः प्रभातसमये मुखधावनादि कृत्वा ततः पश्चाद् राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । तत्र राजा-चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च, ईश्वरो-युवराजः सामान्यमण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः, परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषितशिरास्तलवरः, यस्य पार्श्वत आसनमपरं ग्रामनगरादिकं नास्ति तत्सर्वतश्छिन्नजनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिका, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, इभो-हस्ती तत्प्रमाणं द्रव्यमर्हतीतीभ्यः यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रीदेवताध्यासितसौवर्णपद्दविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः HainEducation For Private Personal use only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy