________________
कमलानामाकरा-उत्पत्तिभूमयो हृदादिजलाशयविशेषास्तेषु यानि नलिनीखण्डानि तेषां बोधको यः स तथा तस्मिन् , पुनः किंभूते तस्मिन्नित्याह-सहस्ररश्मी, दिनं करोतीति दिनकरस्तस्मिन् , तेजसा ज्वलति सति, तत्रैवैते भावाः सर्वेऽपि सन्तीति ज्ञापनार्थ सूर्यस्य विशेषणबहुत्वम्, अनेन चोत्तरोत्तरकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह, तथाहि-केचित् प्रकृष्टोद्यमिनः किश्चित् प्रकाशमानायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्यमिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितरीति, 'मुहधोवणे'त्यादि, मुखधावनं च दन्तप्रक्षालनं च तैलं च फणिहश्च सिद्धार्थाश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां लानाभरणपरिधानादीनां तानि तथा, तत्र फणिहः-कङ्कतकस्तं मस्तकादौ व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दूर्वा, एतदद्वयं मङ्गलार्थ शिरसि प्रक्षिपन्ति, आदर्शेषु मुखादि निरीक्षन्ते, धूपेन वस्त्रादि धूपयन्ति, अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम्, अथवा विकसितानि पुष्पाणि तान्येवाविकसितानि माल्यम्, एतेषां च मस्तकादिषूपयोगः, शेष खरूपत उपयोगतश्च प्रतीतमेव, एतानि द्रव्यावश्यकानि कृत्वा ततः पश्चाद्राजकुलादौ गच्छन्ति । तत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्राऽऽरमन्ति स विविधपुष्पजात्युपशोभित आरामः, वस्त्राभरणादि-18 समलतविग्रहाः सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थ लोका उद्यमन्ति यत्र तचम्पकादितरुख
।
Jain Education
&
For Private & Personel Use Only
wwhijainelibrary.org