________________
अनुयो०
मलधारीया
॥ २३९ ॥
Jain Education
संखेज्जयमित्यादि, अनन्तरोक्ताद्धि युक्तासङ्ख्येयकादेकस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासङ्ख्येयकं निष्पद्यते इति प्रतीयते एवेति । उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्ख्ख्येयकम्, अथ तावद्भेदभिन्नस्यैव युतासङ्ख्येयकस्य निरूपणार्थमाह - 'जहण्णयं जुत्तासंखेज्जयं कित्तिय मित्यादि, अत्रोत्तरं 'जहणणयं परित्तासंखेज्जय' मित्यादि, व्याख्या पूर्ववदेव, नवरम् — 'अन्नमन्नभासो पडिपुन्नो' त्ति अन्योऽन्याभ्यस्तः स परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः, (ग्रं० ५०००) 'अहवा उक्कोसए परित्तासंखेजए' इत्यादि, भावितार्थमेव, 'आवलिया तत्तिया चेव'ति यावन्ति जघन्ययुक्तासङ्ख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, ततः सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्ख्येयकतुल्यसमयराशिमाना सा द्रष्टव्या । तेण पर' मित्यादि ततो जघन्ययुक्तासङ्ख्येयकात् परतः एकोत्तरया वृद्ध्या असङ्ख्येयान्यजघन्योत्कृष्टानि युक्तासङ्ख्येयस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्ख्येयकं न प्राप्नोति । अत्र शिष्यः पृच्छति - 'उक्कोस जुत्तासंखेज्जयमित्यादि, अत्र प्रतिवचनम् - 'जहणएण' मित्यादि, जघन्येन युक्तासङ्ख्येयकेनावलिकासमयराशिर्गुण्यते, किमुक्तं भवति ? - अन्योऽन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स एव एकेन रूपेणोनः उत्कृष्टं युक्तासङ्ख्येयकं भवति, यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्येयासङ्ख्येयकं जायते, अत एवाह - 'अहवा जहण्णयं असंखिज्जासंखिज्जयं स्वूण' मित्यादि, गतार्थम् । उक्तं युक्तासङ्ख्येयकं त्रिविधम्, इदानीमसङ्गख्ये-
For Private & Personal Use Only
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ २३९ ॥
www.jainelibrary.org