SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Jain Education असङ्ख्ख्येयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं सख्येयकमानीतं, तस्मिँश्च यदेकं रूपं पूर्वमधिकं दर्शितं तद् यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासङ्ख्येयकं भवति । 'तेण पर' मित्यादि सूत्र, ततः परं परीतासङ्ख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्टं परीतासङ्ख्येयकं न प्राप्नोति, शिष्यः पृच्छति - कियत्पुनरुत्कृष्टं परीतासङ्ख्येयकं भ वति, अत्रोत्तरं - 'जहण्णयं परीत्तासंखेज्जयं' इत्यादि, जघन्यं परीतासङ्ख्येयकं यावत्प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासङ्ख्येयकमात्राणां - जघन्यपरीता सङ्ख्येयकगतरूपसङ्ख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः - परस्परं गुणनाखरूप एकेन रूपेणोनमुत्कृष्टं परीतासङ्ख्येयकं भवति, इदमत्र हृदयं| प्रत्येकं जघन्यपरीतासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैय राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं मन्तव्यम् । अत्र सुखप्रतिपत्त्यर्थमुदाह| रणं दर्श्यते- जघन्यपरीता सङ्ख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः पश्चैव वाराः पञ्च पञ्च व्यपस्थाप्यन्ते, तथाहि - ५५५५५, अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्मकल्पनया एतावन्मानः सद्भावतस्त्वसङ्ख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासख्येयकं संपद्यते, यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासङ्ख्येयकं जायते, अत एवाह - ' अहवा जहण्णयं जुत्ता For Private & Personal Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy