________________
-SAROKAROSCOROSSAGAROOSSAGES
यासङ्ख्येयकं त्रिविधं बिभणिषुराह-जहण्णयं असंखिज्जासंखेजय मित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसख्येयासख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति, यावदुत्कृष्टासख्येयासडूख्येयकं न प्रामोति। अत्र विनेयः प्रश्नयति-'उक्कोसं असंखेज्जासंखेजकं केत्तियमित्यादि, अत्रोत्तरम्-'जहण्णयं असंखेजासंखेजमित्यादि, जघन्यमसख्येयासङ्ख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासङ्ख्येयास-ख्येयकमात्राणां जघन्यासङ्ख्येयासंख्येयकरूपसख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः-परस्परं गुणनाखरूपः एकेन रूपेणोनः उत्कृष्टमसङ्ख्येयास-ख्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासख्ययासङ्ख्येयकरूपा जघन्यासङ्ख्येयासडूख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीनः उत्कृष्टमसङ्ख्येयासख्येयकं प्रतिपत्तव्यम्, उदाहरणं चाब्राप्युत्कृष्टपरीतासङ्ख्ययकोक्तानुसारेण वाच्यम् , अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति-'अहवा जहण्णयं परित्ताणतय'मित्यादि, गतार्थमेव, इत्येकीयाचार्यमतं तावद्दर्शितम् । अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहिजघन्यासख्येयासङ्ख्ययकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसख्येयखरूपा दश राशयस्तत्र प्रक्षिप्यन्ते,
Jain Education
For Private Personal Use Only
www.ainelibrary.org