SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ RA STISSOSSAURUS ज्नेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः । साम्प्रतमवयवार्थ उच्यते-तत्र यः कश्चिदू 'जीवो'जन्तुः योन्या-योषिवाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन-जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनीजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद वा समुच्छ्रयस्तेन आत्तेन-आदत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, 'सेयकालि'त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते-अध्यष्यते साम्प्रतं तु न तावदयापि शिक्षते, तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकं । नोआगमत्वं चात्राप्यागमा-| भावमाश्रित्य मन्तव्यं, तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वात् । अत्रा|ऽह-नन्यावश्यकस्य कारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कार-15 णत्वम् ?, न हि कार्याभावे वस्तुनः कारणत्वं युज्यते, अतिप्रसङ्गात्, अतः कथमस्य व्यावश्यकता?, सत्यं, किं तु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च है तदनुसारिणः पठन्ति- भाविनि भूतवदुपचार' इति, अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति-यथा कोऽत्र दृष्टान्त इति, निर्वचनमाह-यथाऽयं मधुकुम्भो भविष्यतीत्यादि, एतदुक्तं भवति-यथा मधुनि घृते वा प्रक्षेसुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि लोकेऽयं मधुकुम्भो घृतकुम्भो वेत्यादि व्यपदेशो दृश्यते, तथाऽत्रा Jain Education d e For Private & Personel Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy