SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥ २१ ॥ Jain Education कञ्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः ?, इति पृष्ठे सत्याह-यथाऽयं घृतकुम्भ आसीत्, अयं मधुकुम्भ आसीदित्यादि, एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुक्कुम्भः अयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत इति भावः, निगमयन्नाह - 'से त'मि त्यादि, तदेतद् ज्ञशरीरद्रव्यावश्यकम् ॥ १६ ॥ उक्तो नोआगमतो द्रव्यावश्यक प्रथमभेदः, अथ द्वितीयभेदनिरूपणार्थमाह से किं तं भविअसरीरदव्वावस्सयं ?, २ जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिणोवदिट्टेणं भावेणं आवस्सएत्तिपयं सेयकाले सिक्खिस्सइ न ताव सिक्खड़, जहा को दिट्टंतो?, अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, सेत्तं भविअसरीरदव्वावस्सयं ( सू० १७ ) अथ किं तद्भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह - 'भवियसरीरदव्वावस्सयं जे जीवे इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायार्हस्तद्योग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं किं पुनस्तदित्यत्रोच्यते-यो जीवो योनीजन्मत्वनिष्क्रान्तो For Private & Personal Use Only वृत्तिः अनुयो० अधि० ॥ २१ ॥ jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy