SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ योजित एव, यत्र तु न दृश्यते तत्राध्याहारो द्रष्टव्यः, अहोशब्दो दैन्यविस्मयामन्त्रणेषु वर्तते, स चेह त्रिध्वपि घटते, तथाहि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्यं पार्श्वस्थितमामन्त्रयमाणस्याऽऽमत्रणे, "अनेन प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन, 'जिनदृष्टेन'-तीर्थकराभिमतेन, "भावेन' कर्मनिर्जरणाभिप्रायेण, अथवा-भावेन-तदावरणकर्मक्षयक्षयोपशमलक्षणेन, आवश्यकपदाभिधेयं शास्त्रं 'आघवियंति प्राकृतशैल्या छान्दसत्वाच गुरोः सकाशादागृहीतं, 'प्रज्ञापितं सामान्यतो विनेयेभ्यः कथितं, 'प्ररूपितं तेभ्य एव प्रतिसूत्रमर्थकथनतः, 'दर्शितं' प्रत्युपेक्षणादिक्रियादर्शनतः इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, 'निदर्शितं कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितम्, 'उपदर्शितं' सर्वनययुक्तिभिः। आह-नन्वनेन शरीरसमुच्छ्रयेणाऽऽवश्यकमागृहीतमित्यादि नोपपद्यते, ग्रहणप्ररूपणादीनां जीवधर्मत्वेन शरीरस्याघटमानत्वात्, सत्यं, किन्तु भूतपूर्वगत्या जीवशरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः । पुनरप्याह-ननु यद्यपि तच्छरीरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवन्ति, तथाऽपि कथं तस्य द्रव्यावश्यकता?, यत आवश्यकस्य कारणमेव द्रव्यावश्यकं भवितुमर्हति, “भूतस्य भाविनो वेत्यादिपूर्वोक्तवचनात्, कारणं चाऽऽगमस्य चेतनाधिष्ठितमेव शरीरं न विदं, चेतनारहितत्वात्, तस्यापि तत्कारणत्वेऽतिप्रसङ्गात्, सत्यं, किन्त्वतीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽस्योच्यत इत्यदोषः । स्यादेवं, यद्यत्रार्थे Jain Education For Private & Personel Use Only N ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy