SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अनुयो मलधारीया वाधिकीगतं था सिक्षात पदं गृहीतमित्यादि शक्तिशरीरस्य द्रव्यावश्यकत्वं नामग्रीवादिप वृत्तिः अनुयो० अधि० ॥२०॥ यदि जीवविप्रमुक्तमिदं, कथं तस्य द्रव्यावश्यकत्वं ?, लेष्ट्रवादीनामपि तत्प्रसङ्गात् , तत्पुद्गलानामपि कदा-2 चिदावश्यकवेत्तृभिहीत्वामुक्तत्वसम्भवादित्याशङ्कयाह-सज्जागत'मित्यादि, यस्मादिदं शय्यागतं वा संस्तारगतं वा नैषेधिकीगतं वा सिद्धशिलातलगतं वा दृष्ट्वा कोऽपि ब्रूयाद्-अहो! अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेन आवश्यकमित्येतत् पदं गृहीतमित्यादि यावदुपदर्शितमिति, तस्मादतीतवर्तमानकालभावि वस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनां सम्भवाद् यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते, लेष्ट्रवादि* दर्शने पुनर्नेत्थम्भूतः प्रत्ययः कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः, तेनैव करचरणोरुग्रीवादिपरिणामेनानन्तरमेवाऽऽवश्यककारणत्वेन व्यापृतत्वात्, तदेव तथाविधप्रत्ययजनकं द्रव्यावश्यकं, न लेष्ट्वादय इति भाव इति समुदायार्थः । इदानीमवयवार्थ उच्यते-तत्र शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं शय्यास्थितमित्यर्थः, संस्तारो-लघुकोऽर्धतृतीयहस्तमानस्तं गतं तत्रस्थमित्यर्थः, यत्र साधवस्तपःपरिकर्मितशरीराः खयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तत् सिद्धशिलातलमुच्यते, क्षेत्रगुणतो यथाभद्रकदेवतागुणतो वा साधूनामाराधनाः सिद्ध्यन्ति तत्रेतिकृत्वा, अन्ये तु व्याचक्षते-यत्र महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलं, तद्गतं तत्रस्थितं सिद्धशिलातलगतम्, इह 'निसीहियागयं वे'त्यादीन्यपि पदानि वाचनान्तरे दृश्यन्ते, तानि च सुगमत्वात् स्वयमेव भावनीयानि, नवरं नैषेधिकी-शबपरिस्थापनभूमिः, अपरं चात्रान्तरे 'पासित्ता णं कोई भणिज'त्ति ग्रन्थः कचिद् दृश्यते, स च समुदायार्थकथनावसरे ॥२०॥ Jain Education For Private & Personal Use Only Drainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy