SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अथ किं तत् ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह-जाणगसरीरव्वावस्सयं आवस्सएत्ती'त्यादि, ज्ञानवानिति ज्ञः, प्रतिक्षणं शीर्यत इति शरीरं, ज्ञस्य शरीरं ज्ञशरीरं, तदेव अनुभूतभावत्वाद् द्रव्यावश्यक, किं तदित्याह-यच्छरीरकं संज्ञायां कच् वपुरित्यर्थः, कस्य सम्बन्धीत्याह-'आवस्सएत्ती'त्यादि, आवश्यकमिति यत्पदं आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गतार्थाधिकारा गृह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि, कथंभूतं तदिदं ज्ञशरीरं द्रव्यावश्यकं भवतीत्याह-व्यपगतच्युतच्यावितत्यक्तदेहं जीवविप्रमुक्तमित्यक्षरयोजना, इदानीं भावार्थः कश्चिदुच्यते-तत्र व्यपगतं-चैतन्यपर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तम् , अत एव च्युतं-उच्छासनिःश्वासजीवितादिदशविधप्राणेभ्यः परिभ्रष्टम्, अचेतनस्योच्छासाद्ययोग्यत्वादन्यथा लेष्ट्रवादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंशस्तु खभाववादिभिः कैश्चित् खभावत एवाभ्युपगम्यते, तदपोहार्थमाह-च्यावितं-बलीयसा आयुःक्षयेण तेभ्यः परिभ्रंशितं, न तु खभावतः, तस्य सदाऽवस्थितत्वेन सर्वदा तत्प्रसङ्गादू, एवं च सति कथंभूतं तदित्याह-त्यक्तदेहं-'दिह उपचये'त्यक्तो देह आहारपरिणतिजनित उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहणपरिणतेरभावात्, एवमुक्तेन विधिना जीवेन-आत्मना विविधम्-अनेकधा प्रकर्षण मुक्तं जीवविप्रमुक्तं, तदेतदावश्यकं ज्ञस्य शरीरमतीतावश्यकभावस्य कारणत्वाद् द्रव्यावश्यकम् , अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात्, नोशब्दस्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भावः । ननु गत परिभ्रष्टम् , अचेतनवा एवाभ्युपगम्यते । सर्वदा तत्प्रसङ्गात त्यक्तदेहम्, Jain Educational For Private & Personel Use Only W hw.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy