SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ निवारितत्वाद, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यं, तदेवं नैयत्याभावात्तवाप्यनवस्था प्रसज्येतेति, तन्मैवं भण-भाज्यः प्रदेशः, अपि तु इत्थं भण-'धम्मे पएसे [से पएसे धम्मे 'इत्यादि, इदमुक्तं भवति-धर्मः प्रदेश इति-धर्मात्मकः प्रदेश इत्यर्थः, अत्राह-नन्वयं प्रदेशः सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोखित्तदेकदेशाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सँस्तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह-'से पएसे धम्मति स प्रदेशो धर्मः-सकलधर्मास्तिकायाव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सँस्तत्प्रदेशो धर्मात्मक उच्यत इति भावः । अधर्माकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयं । जीवास्तिकाये तु 'जीवे पएसे से पएसे नोजीवेत्ति, जीवः प्रदेश इति-जीवास्तिकायात्मकः प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्यह देशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः, एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः । एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः स प्राह-यगणसि-धर्मः प्रदेशः स प्रदेशो धर्म इत्यादि, तन्न भवति-न युज्यते, कस्मा अनु. ३९ Jain Education International For Private & Personel Use Only waliwjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy