SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया ॥२२९॥ |दित्याह-इह खलु द्वौ समासौ भवतः, तद्यथा-तत्पुरुषः कर्मधारयश्च, इदमुक्तं भवति-धम्मे पएसे से प-4] वृत्तिः एसे धम्में इत्युक्ते समासद्वयारम्भकवाक्यद्वयमत्र संभाव्यते, तथाहि-यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यं, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमि-11 त्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ?, उच्यते, समासारम्भकवाक्ययोः समासोपचाराद, अथवा अलुक्समासविवक्षया समासावप्येती भवतो, यथा कण्ठेकाल इत्यादीत्यदोषः, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याह-तन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण कर्मधारयण वा ?, यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो-धर्मे प्रदेश इति भेदापत्तिः, यथा कुण्डे बदराणीति, न च प्रदेशदेशिनौ भेदेनोपलभ्येते, अथ अभेदेऽपि सप्तमी |दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोषः स्यात्, अथ कर्मधारयेण भणसि, ततो विशेषेण भण 'धम्मे असे पएसे य से'त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरणः कर्मधारयः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । आह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायाव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते ? उत तदेकदेशवृत्तिः सन् ? यथा जीवास्तिकायैकदे-15 शवृत्तिजीवप्रदेश इत्याशक्याह-से पएसे धम्मत्ति स च प्रदेशः सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना पूर्ववत्, 'से पएसे नोजीवे से पएसे नोखंधे' इत्यत्रापि पूर्ववदेवार्थकथ CASSCOMMC ॥२२९॥ Jain Education For Private Personel Use Only Tiainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy