________________
अनुयो. मलधा
वृत्तिः उपक्रमे प्रमाणद्वारं
रीया
॥२२८॥
पञ्चानां प्रदेश इति, तन्न भवति-न युज्यते, कस्माद्?, यदि यथा पश्चानां गोष्ठिकानां किश्चिद् द्रव्यं सामान्यम्-एकं भवति, तद्यथा-हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुं-पञ्चानां प्रदेश इति, इदमुक्तं भवति-यथा केषाञ्चित्पश्चानां पुरुषाणां साधारणं किश्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित्साधारणः प्रदेशः स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्मा भण पश्चानां प्रदेशः, अपि तु भण-पञ्चविधः-पञ्चप्रकारः प्रदेशः, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह-'धर्मप्रदेश' इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यणसि पञ्चविधः प्रदेशः, तन्न भवति, कस्मादु?, यस्माद्यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः पञ्चविधः प्राप्तः, शब्दादत्र वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविधः प्रदेशः प्रामोति, तस्मान्मा भण-पञ्चविधः प्रदेशः, किन्त्वेवं भण-भाज्यः प्रदेशः, स्याडर्मस्येत्यादि, इदमुक्तं भवतिभाज्यो-विकल्पनीयो विभजनीयः प्रदेशः, कियद्भिर्विभागैः? स्याद्धर्मप्रदेश इत्यादि पञ्चभिः, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति, स च यथाखमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुतनयमतेनासत्त्वादिति । एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद्भणसि-भाज्यः प्रदेशः, तन्न भवति, कुतो?, यतो यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिधर्मास्तिकायादिप्रदेशः स्यादू, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेशः स्यादु, इत्थमपि भजनाया अ
॥२२८॥
Jain Educationa
l
For Private
Personal Use Only