________________
ROSISRASK
णति-षण्णां प्रदेशः, तद्यथा-'धम्मपएसे' इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः, एवमधर्माकाशजीवास्तिकायेष्वपि योज्यं, स्कन्धः-पुद्गलद्रव्यनिचयस्तस्य प्रदेशः स्कन्धप्रदेशः, देश:-एषामेव पञ्चानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिवृत्तोऽवयवस्तस्य प्रदेशो देशप्रदेशः, अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तं, विशेषविवक्षायां तु षट् प्रदेशाः। एवं वदन्तं नैगमं ततो निपुणतरः सङ्कहो भणति-यणसि पण्णां प्रदेश इति, तन्न भवति-तन्न युज्यते, कस्मात्, यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं, तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य यः प्रदेशः स वस्तुवृत्त्या तस्यैव द्रव्यस्य यत्सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य देशस्य यः प्रदेशः स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टान्त इत्याह-'दासेणे'त्यादि, लोकेऽप्येवं व्यवहृतिदृश्यते, यथा कश्चिदाह-मदीयदासेन खरः क्रीतः, तत्र दासोऽपि मदीयः खरोऽपि मदीयः, दासस्य मदीयत्वात् तत्क्रीतः खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात्तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः, तस्मान्मा भण -पण्णां प्रदेशः, अपि त्वेवं भण-पश्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवाघटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि तत्प्रदेशाश्चेत्येवमप्यविशुद्धसङ्ग्रह एव मन्यते, अवान्तरद्रव्ये सामान्याद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुसामान्यक्रोडीकतत्वेनैकत्वादित्यलं प्रसङ्गेन । प्रकृतमुच्यते-एवं वदन्तं सङ्ग्रहं ततोऽपि निपुणो व्यवहारो भणति-यद्भणसि
SANASIASANAETOK***
AUSOSASTOSOS%
Eden
For Private
Personal Use Only
K
rjainelibrary.org