________________
SCAM
लग्रा वृत्तिः
अनुयो० मलधारीया
उपक्रमे प्रमाणद्वारं
॥२१६॥
नुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालविषयं ग्रहणं-ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणं, प्रत्युत्पन्नो-वर्तमानः कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम् , अनागतो-भविष्यत्कालस्तद्विषयं ग्रह- णमनागतकालग्रहणं, कालत्रयवर्तिनोऽपि विषयस्यानुमानात्परिच्छेदो भवतीत्यर्थः, तत्र 'उत्तिणाईति उद्गतानि तृणानि येपु वनेषु तानि तथा, अयमत्र प्रयोगः-सुवृष्टिरिहासीद् उत्तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनाद, अभिमतदेशवदित्यतीतस्प वृष्टिलक्षणविषयस्य परिच्छेदः, साधुं च 'गोचराग्रगत' भिक्षाप्रविष्टं विशेषेण छर्दितानि-गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित्साधयति-सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्तपानलाभदर्शनात्, पूर्वदृष्टप्रदेशवदिति । 'अब्भस्स निम्मलत्तं गाहा सुगमा, नवरं स्तनितं-मेघगर्जितं 'वाउभामोत्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः 'वारुणं'ति आर्द्रामूलादिनक्षत्रमभवं माहेन्द्ररोहिणीज्येष्ठादिनक्षत्रसम्भवं अन्यतरमुत्पातम्-उल्कापातदिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते, यथा-सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति, विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यतः प्रतिपत्रैव तत्र निपुणेन भाव्य|मिति । 'एएसिं चेव विवज्जासे' इत्यादि, एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे-व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्यो, यथा-कुवृष्टिरिहासीनिस्तृणवनादिदर्शनादित्यादिव्य
॥२१६॥
For Private
Personal use only
.