________________
Jain Education
दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्य, तद्गमकत्वेन विद्येत यत्र तद् दृष्टसाधर्म्यवत्, पूर्वदृष्टश्चार्थः कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्याद्, अतस्तद्भेदादिदं द्विविधं, सामान्यतो दृष्टार्थयोगात्सामान्यदृष्टं, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टं तत्र सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि, इदमुक्तं भवति नालिकेरद्वीपादायातः कश्चित् तत्प्रथमतया सामान्यत एकं कश्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पु रुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गाद्, गवादिवत्, बहुषु तु पुरुषेषु तत्प्रथमतों वीक्षितेष्वेवमनुमिनोति यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित्पुरुषः एतदाकारवानेव पुरुषत्वाद्, अपराकारत्वे तद्धानिप्रसङ्गाद्, अश्वादिवदिति, एवं कार्षापणादिष्वपि वाच्यं, विशेषतो दृष्टमाह - 'से जहानामए' इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं यदा कश्चित् कचित् कञ्चित्पुरुषविशेषं दृष्ट्वा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोषः समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति-यः पूर्व मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वाद्, उभयाभिमतपुरुषवदिति, एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदर्श्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयनाह - 'तस्स समासओ तिविहं गहणमित्यादि, तस्येति - सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्या
For Private & Personal Use Only
jainelibrary.org