________________
अनुयोग
मलधारीया
वृत्तिः उपक्रमे प्रमाणद्वार
॥२१४॥
दशादिवर्णकोपेतमिदं सुवर्ण, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत्, एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धवस्तुवत्, एवं लवणमदिरावस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वादस्पर्शादिगुणोपलब्धेः प्रतिनियतवरूपाः साधयितव्याः। 'से किं तं अवयवेण मित्यादि, अवयवदर्शनेनावयवी अनुमीयते, यथा महिषः, अत्र तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत्, अयं च प्रयोगो वृत्तिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धेरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽयं तदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्टमनुष्यवद्, एवं चतुष्पदबहुपदेध्वपि 'गोम्हीकण्णशृगाली परियरबंधेण भड'मित्यादि गाथा पूर्व व्याख्यातैव, तदनुसारेण भावार्थोऽप्यूह्य इति । 'से किं तं आसएण'मित्यादि, आश्रयतीत्याश्रयो-धूमबलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलानुमानं प्रतीतमेव, आकारेङ्गितादिभिश्च पूर्व व्याख्यातखरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतं मनोऽनुमान सुप्रसिद्धमेव, अत्राह-ननु धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यासः ?, सत्यं, किन्त्वन्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यास कृत इत्यदोषः, तदेतत् शेषवदनुमानम् ।
से किं तं दिटुसाहम्मवं?, २ दुविहं पण्णत्तं, तंजहा-सामन्नदिटुं च विसेसदिटुं च । से किं तं सामण्णदिटुं?, २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा
॥२१४॥
Jain Education
For Private & Personel Use Only
Mainelibrary.org