SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ योमुचः॥१॥” इति, एवं चन्द्रोदयाजलधेर्वृद्धिरनुमीयते कुमुदविकाशश्च, मित्रोदयाजलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीवलमनःप्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य नाकारणं, तत्र कार्यकारणभाव एव केषाश्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दर्शयन्नाह-तन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणं, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भाद, अत्राह-ननु यदा कश्चिनिपुणः पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवं, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् खस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वनोपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराभावेन भवत आरोगितासुखस्य ज्वरः कारणमिति शक्यते वक्तुं, यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवं, तन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावीभवेयुस्तदा मृद्भावे घटस्यैव पटस्य सर्वथैवोप-टू लब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्, एवं वीरणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चितं तत्तस्य यथासम्भवं गमकत्वेन 'वक्तव्यमिति । से किं तं गुणेण'मित्यादि, निकष:-कषपट्टगता कषितसुवर्णरेखा तेन सुवर्णमनुमीयते, यथा पश्च Jan Education in For Private Personal Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy